वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: वामदेवो गौतमः छन्द: पदपङ्क्तिः स्वर: पञ्चमः काण्ड:

अ꣢धा꣣꣬ ह्य꣢꣯ग्ने꣣ क्र꣡तो꣢र्भ꣣द्र꣢स्य꣣ द꣡क्ष꣢स्य सा꣣धोः꣢ । र꣣थी꣢रृ꣣त꣡स्य꣢ बृह꣣तो꣢ ब꣣भू꣡थ꣢ ॥१७७८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः । रथीरृतस्य बृहतो बभूथ ॥१७७८॥

मन्त्र उच्चारण
पद पाठ

अ꣡ध꣢꣯ । हि । अग्ने । क्र꣡तोः꣢꣯ । भ꣣द्र꣡स्य꣢ । द꣡क्ष꣢꣯स्य । सा꣣धोः꣢ । र꣣थीः꣢ । ऋ꣣त꣡स्य꣢ । बृ꣣हतः꣢ । ब꣣भू꣡थ꣢ ॥१७७८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1778 | (कौथोम) 9 » 1 » 5 » 2 | (रानायाणीय) 20 » 1 » 5 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा का वर्णन है।

पदार्थान्वयभाषाः -

(अध) और हे (अग्ने) जीवन को उन्नत करनेवाले परमात्मदेव ! आप (भद्रस्य क्रतोः) शुभकर्म के, (साधोः दक्षस्य) साधु बल के और (बृहतः ऋतस्य) महान् सत्य के (रथीः) स्वामी (हि) निश्चय ही (बभूथ) हो ॥२॥

भावार्थभाषाः -

जैसे जगदीश्वर श्रेष्ठ कर्म, बल और सत्य का अधिपति है, वैसे ही मनुष्यों को भी होना चाहिए ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानं वर्णयति।

पदार्थान्वयभाषाः -

(अध) अथ, हे (अग्ने) जीवनोन्नायक परमात्मदेव ! त्वम् (भद्रस्य क्रतोः) शुभस्य कर्मणः (साधोः दक्षस्य) शोभनस्य बलस्य, (बृहतः ऋतस्य) महतः सत्यस्य च (रथीः) स्वामी (हि) निश्चयेन (बभूथ) बभूविथ। [अत्र ‘बभूथाततन्थजगृभ्मववर्थेति निगमे’। अ० ७।२।६४ इति निपातनादिडभावः। ‘रथीः’ इत्यत्र ‘छन्दसीवनिपौ च वक्तव्यौ’ वा० ५।२।१२२ इति वार्तिकेन मत्वर्थे ई प्रत्ययः। ‘अधा’ इत्यत्र ‘निपातस्य च’। अ० ६।३।१३६ इत्यनेन दीर्घः] ॥२॥२

भावार्थभाषाः -

यथा जगदीश्वरः श्रेष्ठस्य कर्मणो बलस्य सत्यस्य चाधिपतिर्वर्तते तथैव मनुष्यैरपि भाव्यम् ॥२॥